Wednesday 25 May 2011


श्री योगेश्वरी देवी 
या रक्त दन्तिका नाम देवी प्रोक्ता मयानघ |तस्याः स्वरुपम्  वक्ष्यामि शृणु सर्वभयापहम्|
रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणारक्तायुधा रक्तनेत्रा  रक्त केशातिभीषणा|
रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिकापतिं नारीवानुरक्ता  देवी भक्तं भजेज्जनम्|
वसुधेव विशाला सा सुमेरुयुगलस्तनीदिर्घौ लम्बावतिस्थुलौ  तावतीव  मनोहरौ|
कर्कशावतिकान्तौ  तौ सर्वानन्दपयोनिधि|भक्तान् संपाययेद्देवि  सर्वकामदुघौ स्तनौ|
खड्गं पात्रं च मुसलं  लाङ्गलं च बिभ्रर्ति सा| आख्याता रक्त चामुण्डा देवी योगेश्वरिति च|
अनया व्याप्तंखिलं  जगत्स्थाव जङ्गमम्| इमां यः पुजयेभ्दक्त्या  स व्याप्नोति चराचरम्|
अधीते य इमां नित्यं रक्तदन्त्या वपुःस्तवम्|तं सा परिचरेद्देवी  पतिं  प्रियमिवाड्गना|

No comments:

Post a Comment