श्री योगेश्वरी देवी
या रक्त दन्तिका नाम देवी प्रोक्ता मयानघ |तस्याः स्वरुपम् वक्ष्यामि शृणु सर्वभयापहम्|
रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा| रक्तायुधा रक्तनेत्रा रक्त केशातिभीषणा|
रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका| पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम्|
वसुधेव विशाला सा सुमेरुयुगलस्तनी| दिर्घौ लम्बावतिस्थुलौ तावतीव मनोहरौ|
कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधि|भक्तान् संपाययेद्देवि सर्वकामदुघौ स्तनौ|
खड्गं पात्रं च मुसलं लाङ्गलं च बिभ्रर्ति सा| आख्याता रक्त चामुण्डा देवी योगेश्वरिति च|
अनया व्याप्तंखिलं जगत्स्थाव जङ्गमम्| इमां यः पुजयेभ्दक्त्या स व्याप्नोति चराचरम्|
अधीते य इमां नित्यं रक्तदन्त्या वपुःस्तवम्|तं सा परिचरेद्देवी पतिं प्रियमिवाड्गना|
No comments:
Post a Comment